।। महानारायणास्त्रम् ।।
देविदेवि महादेवि करुणाकरपुङ्गवि।
कथितान्यागमोक्तानि महास्त्राणि त्वयानघे।।१।।
गारुडं वारुणं सार्षं पार्वतं बलिदैवतम्।
अघोराख्यं महास्त्रञ्च तथा पाशुपतं शुभम्।।२।।
नारायणाख्यमस्त्रं च कथय स्वानुकम्पया।
न कथ्यते महामातर्विमुञ्चामि तदा तनुम्।।३।।
देव्युवाच।
शृणु भैरव यत्नेन कथयामि तवाग्रतः।
कस्याग्रे न कथितं मन्त्रं नारायणात्मकम्।।४।।
महाभये महोत्पाते महाविघ्नेषु सङ्कटे।
धारणादस्त्रराजस्य भयं सर्वं निवर्तते।।५।।
पूर्वं यद्ब्रह्मणे प्रोक्तं विष्णुना प्रभविष्णुना।
सृष्टिकाले महाविघ्नपराभूताय भैरव।।६।।
तदहं सम्प्रवक्ष्यामि महाशत्रुनिबर्हणम्।
महाविघ्नोपशमनं महासङ्कटनाशनम्।।७।।
ॐ अस्य श्रीनारायणास्त्रमहामन्त्रस्य आदिसृष्टिकर्ता ब्रह्माऋषिः, जगती छन्दः, त्रिपादविभूतिनायकः श्रीमन्नारायणो देवता, ॐ बीजम्, ह्रीं शक्तिः, ॐ नमःकीलकम्, मम सर्वारिष्टशान्तये सकलाभीष्टसिद्ध्यर्थे च नारायणास्त्र महामन्त्रपाठे विनियोगः।।
अथ ध्यानं।
ध्यायेत्सागरमध्यस्थं सहस्रादित्यतेजसम्।
अनन्तशक्तिसंयुक्तं नारायणमनामयम्।।८।।
ॐ ऐं ह्रीं श्रीं नमो भगवते नारायण सकल जगदुत्पत्ति-स्थिति लयकारणाय अमिततेजसे अतुलबलपराक्रमाय महाविभूतिपतये ह्रीं ह्रीं ह्रैं ह्रैं ह्रः सकलनिगमगोचर गुणगणाय महासम्राज्यविभूति विभूषिताय ध्वजातपत्रचामरव्यजनकुण्डल कर कटि सूत्राङ्गदादि हार- वलयमणिनूपुराद्यनेकमणिभूषण भूषिताय सहस्रशिरसे सहस्राक्षाय सहस्रभुजाय सहस्रपादाय शङ्खचक्रगदापद्मधराय शार्ङ्गधर शरनन्दकखड्गचर्मखेटकपरशुपाशहलमुसल-
तोमरभुशुण्डीपाशाङ्कुशकुन्तशतघ्नीपरशुवराभय
विभूषितभुजसहस्राय बलिरञ्जितब्रह्माण्डमण्डलाय अनन्त- नागेन्द्रसिंहासनाधिष्ठिताय सनकाद्यनेक मुनिगणसिद्धचारण- विद्याधरकिन्नरगन्धर्वयक्ष रक्षोरगगीर्वाणस्वर्गीतगुणार्णवाय सकल जगद्भयङ्कराय भूतप्रेतपिशाचयक्षराक्षस डाकिनी शाकिनी वैतालमारीच ब्रह्मराक्षसकूष्माण्ड वैनायक मातृगणानुन्मथय-मथय क्षयं कुरु-कुरु कुष्टदुष्टज्वर दाहापस्मारीप्रमेहविस्फोटक- ब्रह्मापस्मारादि सर्वराजरोगान् विहिंसनाय ममाभयं कुरु-कुरु
मम शत्रूनुच्चाटय-उच्चाटय व्याधिभयं शमय-शमय
चौरभयं नाशय- नाशय महास्त्राणि स्तम्भय-स्तम्भय
मम दुष्टग्रहान् भीषय-भीषय मम द्वेषकरान् मोहय-मोहय स्तम्भय-स्तम्भय कम्पय-कम्पय पातय-पातय बन्धय-बन्धय भूतग्रहान् बन्धय-बन्धय बालग्रहान् शमय-शमय यक्षपक्ष- ज्वालातमोहारग्रहान् ज्वल-ज्वल- प्रज्ज्वल-प्रज्ज्वल मथ-मथ पच-पच दह-दह उन्मथयोन्मथय मम शत्रून् विनाशय-विनाशय त्रोटय-त्रोटय निगडपाशादीन् मोचय-मोचय वद्दिवातसुपर्णनाग- पर्वतपर्जन्यादि दुष्टशस्त्रास्त्रजन्यबन्धनानि शमय-शमय शत्रुकृत महापीडां शमय-शमय दुष्टरोगपीडां शमय-शमय
दुष्कृतपीडां शमय-शमय भूत-प्रेत-पिशाचादि पीडां शमय-शमय दुष्कर्मजन्यनरकभयात् मामुद्धरोद्धर मां सञ्जीवय-सञ्जीवय महामृत्युभ्यां मां मोचय-मोचय ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः खं खां खैं फट् हुँ हुँ हुँ फट्-फट् ठःठःठः ह्रीं ह्रीं ह्रीं हुँ हुँ हुँ एहि-एहि ज्वल-ज्वल प्रज्वल-प्रज्वल हुँ फट् स्वाहा।
ॐ नमोनारायणाय नमस्ते नमस्ते नमस्ते।।९।।
देव्युवाच।
इत्येतत्पपरमं गुह्यमस्त्रं नारायणात्मकम्।
त्वमेव संयतो भूत्वा धारयस्व निरन्तरम्।।१०।।
महाभये महोत्पाते महाशत्रुसमागमे।
रणे दुर्गे विवादे च पाते चौराग्निजे भये।।११।।
विषसर्पभये घोरे मारीराजभये तथा।
स्मरणान्मन्त्रराजस्य भयं सर्वं निवर्तते।।१२।।
एकवारं पठेद्यो वै व्याधिभूतादिनाशनम्।
एकवारं पठेद्यो वै दशविद्याफलं लभेत्।।१३।।
शतावर्तनमात्रेण सर्वशत्रुक्षयो भवेत्।
सहस्रावर्तनेनैव ग्रहपीडा निवर्तते।।१४।।
अयुतावर्तनेनैव राज्यलक्ष्मी स्थिरा भवेत्।
पञ्जविंशति सहस्रेण पञ्जतत्त्वाधिपो भवेत्।।१५।।
लक्षावर्तनमात्रेण लक्ष्मीपतिः सम्भवेत्।
नदीतीरे पर्वताग्रे पिप्पलाग्रे शुभालये।।१६।।
गोष्ठे वृन्दावने रम्ये पठन्मन्त्रमनूत्तमम्।
त्रिलोहवेष्ठितं चैतद्धारयेद्दक्षिणे करे।।१७।।
सङ्ग्रामे शस्त्रसम्पाते शस्त्रधारानिबन्धनम्।
त्वमपि श्रद्धया मन्त्रं धारयस्व निरन्तरम्।।१८।।
सुरासुरैरजेयश्च भविष्यसि न संशयः।
तव स्नेहान्मयाऽऽख्यातं मन्त्रराजमनूत्तमम्।।१९।।
गोपायस्व प्रयत्नेन गुह्याद्गुह्यन्तरं परम्।
सुशिष्याय प्रदातव्यं महाविद्याप्रजापिने।।२०।।
